देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणी तरलतरङ्गे ।
शंङ्करमौलिविहीरिणी विमले
मम मतिरास्तां तव पदकमले ।।
भागीरथि सुखदायिनी मातः
तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं
त्राहि कृपामयि मामज्ञानम् ।।
हरिपदपद्मविहारिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ।।
रोगं शोकं पापं तापं
हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे ।।
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः ।।
Shankara еще тексты
Оценка текста
Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1